|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.109. अध्यायः 109
Mahabharata - Adi Parva - Chapter Topics
भीष्मस्य काशिपतिकन्याहरणार्थं वाराणसीगमनम्॥ 1 ॥
कन्यां हृतवता भीष्मेण युद्धे राज्ञां पराजयः॥ 2 ॥
मध्येमार्गं साल्वपराजयः॥ 3 ॥
विचित्रवीर्यविवाहोपक्रमे तमनिच्छन्त्या ज्येष्ठाया अम्बयाः साल्वं प्रति गमनम्॥ 4 ॥
तेन प्रत्याख्यातायाः पुनर्भीष्मं प्राप्ताय अम्ब्रायाः भीष्मेण निराकरणम्॥ 5 ॥
भीष्मजिघांसया तपस्यन्त्या अम्बायाः प्रसन्नात्कुमारान्मालाप्राप्तिः॥ 6 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-109-0x(667)(4844)
हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव।
पालयामास तद्राज्यं सत्यवत्या मते स्थितः॥ 1-109-1(4845)
`तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले।'
संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः।
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्॥ 1-109-2(4846)
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः।
शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम्॥ 1-109-3(4847)
ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित्।
जगामानुमते मातुः पुरीं वाराणसीं प्रभुः॥ 1-109-4(4848)
तत्र राज्ञः समुदितान्सर्वतः समुपागतान्।
ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः॥ 1-109-5(4849)
`तासां कामेन संमत्ताः सहिताः काशिकोसलाः।
वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति॥' 1-109-6(4850)
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः।
एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम्॥ 1-109-7(4851)
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः।
अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया॥ 1-109-8(4852)
वृद्धः परमधर्मात्मा वलीपलितधारणः।
किकारणमिहायातो निर्लज्जो भरतर्षभः॥ 1-109-9(4853)
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत।
ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि॥ 1-109-10(4854)
इत्येवं प्रबुवन्तस्ते हसन्ति स्म नृपाधमाः। 1-109-11(4855)
वैशम्पायन उवाच।
क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत॥ 1-109-11x(668)
भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः।
उवाच च महीपालान्राजञ्जलदनिःस्वनः॥ 1-109-12(4856)
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः।
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः॥ 1-109-13(4857)
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि।
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि॥ 1-109-14(4858)
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च।
प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते॥ 1-109-15(4859)
आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे।
अष्टमं तमथो वित्त विवाहं कविभिर्वृतम्॥ 1-109-16(4860)
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च।
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः॥ 1-109-17(4861)
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः।
ते यतध्वं परं शक्त्या विजयायेतराय वा॥ 1-109-18(4862)
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः। 1-109-19(4863)
वैशम्पायन उवाच।
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान्॥ 1-109-19x(669)
सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम्।
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः॥ 1-109-20(4864)
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः।
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान्॥ 1-109-21(4865)
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम्।
आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत्॥ 1-109-22(4866)
ताराणामिव संपातो बभूव जनमेजय।
भूषणानां च सर्वेषां कवचानां च सर्वशः॥ 1-109-23(4867)
सवर्मभिर्भूषणैश्च प्रकीर्यद्बिरितस्ततः।
सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः॥ 1-109-24(4868)
सूतोपक्लृप्तान् रुचिरान्सदश्वैरुपकल्पितान्।
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः॥ 1-109-25(4869)
प्रयान्तमथ कौरव्यमनुसस्रुरुदायुधाः।
ततः समभवद्युद्धं तेषां तस्य च भारत।
एकस्य च बहूनां च तुमुलं रोमहर्षणम्॥ 1-109-26(4870)
ते त्विषून्दशसाहस्रांस्तस्मिन्युगपदाक्षिपन्।
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथाऽन्तरा॥ 1-109-27(4871)
अच्छिनच्छरवर्षेण महता लोमवाहिना।
ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम्॥ 1-109-28(4872)
ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः।
स तं बाणमयं वर्षं शरैरावार्य सर्वतः॥ 1-109-29(4873)
ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः।
एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः॥ 1-109-30(4874)
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन्।
तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम्॥ 1-109-31(4875)
पश्यतां लोकवीराणां शरशक्तिसमाकुलम्।
स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि॥ 1-109-32(4876)
चिच्छेद समरे भीष्मः शतशोथ सहस्रशः।
तस्यातिपुरुषं कर्म लाघवं रथचारिणः॥ 1-109-33(4877)
रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन्।
`अक्षतः क्षपयित्वान्यानसङ्ख्येयपराक्रमः॥ 1-109-34(4878)
आनिनाय स काश्यस्य सुताः सागरगासुतः।'
तान्विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः॥ 1-109-35(4879)
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति।
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः॥ 1-109-36(4880)
अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे।
वारणं जघने भिन्दन्दन्ताभ्यामपरो यथा॥ 1-109-37(4881)
वासितामनुसंप्राप्तो यूथपो बलिनां वरः।
स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाह स पार्थिवः॥ 1-109-38(4882)
साल्वराजो महाबाहुरमर्षेण प्रचोदितः।
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः॥ 1-109-39(4883)
तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन्।
विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत्॥ 1-109-40(4884)
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः।
निवर्तयामास रथं साल्वं प्रति महारथः॥ 1-109-41(4885)
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते।
प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे॥ 1-109-42(4886)
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे।
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ॥ 1-109-43(4887)
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः।
साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः॥ 1-109-44(4888)
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः।
विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन्॥ 1-109-45(4889)
लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः।
अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम्॥ 1-109-46(4890)
क्षत्रियाणां ततो वाचः श्रुत्वा परपुञ्जयः।
क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत॥ 1-109-47(4891)
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः।
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट्॥ 1-109-48(4892)
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः।
तेनाश्वांश्चतुरोऽमृद्गात्साल्वराजस्य भूपते॥ 1-109-49(4893)
अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः।
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम्॥ 1-109-50(4894)
अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान्।
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा॥ 1-109-51(4895)
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम्।
ततः साल्वः स्वनगरं प्रययौ भरतर्षभ॥ 1-109-52(4896)
स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा।
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः॥ 1-109-53(4897)
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः।
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः॥ 1-109-54(4898)
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः।
विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम्॥ 1-109-55(4899)
यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः।
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप॥ 1-109-56(4900)
वनानि सरितश्चैव शैलांश्च विनिधान्द्रुमान्।
अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः॥ 1-109-57(4901)
आनयामास काश्यस्य सुताः सागरगासुतः।
स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः॥ 1-109-58(4902)
यथा दुहितश्चैव परिगृह्य ययौ कुरून्।
आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया॥ 1-109-59(4903)
ताः सर्वगुणसंपन्ना भ्राता भ्रात्रे यवीयसे।
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः॥ 1-109-60(4904)
एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम्।
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे॥ 1-109-61(4905)
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान्।
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता।
ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा॥ 1-109-62(4906)
मया सौभपतिः पूर्वं मनसा हि वृतः पतिः।
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः॥ 1-109-63(4907)
मया वरयितव्योऽभूत्साल्वस्तस्मिन्स्वयंवरे।
एतद्विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर॥ 1-109-64(4908)
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि।
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः॥ 1-109-65(4909)
`अन्यसक्ता त्वियं कन्या ज्येष्ठा त्वम्बा मया जिता।
वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना॥ 1-109-66(4910)
निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तिनी।
इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम्॥' 1-109-67(4911)
विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः।
अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम्॥ 1-109-68(4912)
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे।
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा॥ 1-109-69(4913)
तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः।
विचित्रवीर्यो धर्मात्मा नाम्बामैच्छत्कथंचन॥ 1-109-70(4914)
`अम्बामन्यस्य कीर्त्यन्तीमब्रवीच्चारुदर्शनाम्। 1-109-71(4915)
विचित्रवीर्य उवाच।
पापस्य फलमेवैष कामोऽसाधुर्निरर्थकः।
परतन्त्रोपभोगो मामार्य नाऽऽयोक्तुमर्हसि॥ 1-109-71x(670)
भीष्म उवाच। 1-109-72x(671)
प्रातिष्ठच्छान्तनोर्वंशस्तात यस्य त्वमन्वयः।
अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव॥ 1-109-72(4916)
इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत्।
विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते॥ 1-109-73(4917)
नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम्।
अन्यबावगतां चापि को नारीं वासयेद्गृहे॥ 1-109-74(4918)
अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम्।
अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि॥ 1-109-75(4919)
न संबन्धस्तदावाभ्यां भविता वै कथंचन। 1-109-76(4920)
वैशम्पायन उवाच।
इत्युक्ता सा गता तत्र सखीभिः परिवारिता॥ 1-109-76x(672)
निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति।
अथाम्बा साल्वंमागम्य साऽब्रवीत्प्रतिपूज्य तं॥ 1-109-77(4921)
पुरा निर्दिष्टभावा त्वामागतास्मि वरानन।
देवव्रतं समुत्सृज्य सानुजं भरतर्षभम्॥ 1-109-78(4922)
प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम्॥ 1-109-79(4923)
वैशम्पायन उवाच। 1-109-80x(673)
तयैवमुक्तः साल्वोपि प्रहसन्निदमब्रवीत्।
निर्जिताऽसीह भीष्मेण मां विनिर्जित्य राजसु॥ 1-109-80(4924)
अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात्।
न गृह्णामि वरारोहे तत्र चैव तु गम्यताम्॥ 1-109-81(4925)
वैशम्पायन उवाच। 1-109-82x(674)
इत्युक्ता सा समागम्य कुरुराज्यमनुत्तमम्।
अम्बाब्रवीत्ततो भीष्मं त्वयाऽहं सहसा हृता॥ 1-109-82(4926)
क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः।
यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसंपदा॥ 1-109-83(4927)
राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम्।
अतस्त्वमेव भर्ता मे त्वयाऽहं निर्जिता यतः॥ 1-109-84(4928)
तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया।
ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनःपुनः॥ 1-109-85(4929)
भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु।
एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा॥ 1-109-86(4930)
ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम्।
तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः॥ 1-109-87(4931)
अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा।
अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि॥ 1-109-88(4932)
नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे।
विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति॥ 1-109-89(4933)
भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति।
नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता॥ 1-109-90(4934)
ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता।
अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः॥ 1-109-91(4935)
गमनागमनेनैवमनैषीत्षट् समा नृप।
अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी॥ 1-109-92(4936)
पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा।
श्रोणीभरालसगमा राकाचन्द्रनिभानना॥ 1-109-93(4937)
वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा।
सा ततो द्वादश समा बाहुदामभितो नदीम्।
पार्श्वे हिमवतो रम्ये तपो घोरं समाददे॥ 1-109-94(4938)
संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता।
पादाङ्गुष्ठेन साऽतिष्ठदकम्पन्त ततः सुराः॥ 1-109-95(4939)
तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम्।
विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान्॥ 1-109-96(4940)
अनन्तसेनो भगवान्कुमारो वरदः प्रभुः।
मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम्॥ 1-109-97(4941)
एषा पुष्करिणी दिव्या यथावत्समुपस्थिता।
अम्बे त्वच्छोकशमनी माला भुवि भविष्यति॥ 1-109-98(4942)
एतां चैव मया दत्तां मालां यो धारयिष्यति।
सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति॥ ॥ 1-109-99(4943)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि नवाधिकशततमोऽध्यायः॥ 109 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-109-13 आहूयेति ब्राह्मः॥ 1-109-14 मिथुनेन गृहीतेनेत्यार्षः॥ 1-109-15 वित्तेनेत्यासुरः। बलेनेति राक्षसः। अनुमान्येति गान्धर्वः। प्रमत्तामिति पैशाचः। स्वयमन्ये इति प्राजापत्यः॥ 1-109-16 आर्षं विधिं यज्ञम्। तेन दैव उक्तः। अष्टमं राक्षसं विवाहम्॥ 1-109-17 प्रशंसति। स्वयंवरमिति॥ 1-109-24 प्रकीर्यद्भिर्भऊषणैरुपलक्षिता अनुसस्रुरिति तृतीयेनान्वयः॥ 1-109-43 वृषौ रेतःसेककामौ गजौ गोवृषावेव वा तत्साहचर्याद्वासिता पुष्पिणी गौस्तदन्तरे वन्निमित्तम्॥ 1-109-52 जीवन्तं प्राणमात्रावशेषितम्॥ 1-109-58 काश्यस्य काशिराजस्य। अनुजाः कनिष्ठाः॥ 1-109-71 अम्बां दृष्ट्वेति शेषः। अब्रवीत् भीष्ममिति शेषः॥ नवाधिकशततमः॥ 109 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|